रथं॑ युञ्जते म॒रुतः॑ शु॒भे सु॒खं शूरो॒ न मि॑त्रावरुणा॒ गवि॑ष्टिषु। रजां॑सि चि॒त्रा वि च॑रन्ति त॒न्यवो॑ दि॒वः स॑म्राजा॒ पय॑सा न उक्षतम् ॥५॥
rathaṁ yuñjate marutaḥ śubhe sukhaṁ śūro na mitrāvaruṇā gaviṣṭiṣu | rajāṁsi citrā vi caranti tanyavo divaḥ samrājā payasā na ukṣatam ||
रथ॑म्। यु॒ञ्ज॒ते॒। म॒रुतः॑। शु॒भे। सु॒ऽखम्। शूरः॑। न। मि॒त्रा॒व॒रु॒णा॒। गोऽइ॑ष्टिषु। रजां॑सि। चि॒त्रा। वि। च॒र॒न्ति॒। त॒न्यवः॑। दि॒वः। स॒म्ऽरा॒जा॒। पय॑सा। नः॒। उ॒क्ष॒त॒म् ॥५॥
स्वामी दयानन्द सरस्वती
अब मित्रावरुणवाच्य शिल्पविषय को कहते हैं ॥
स्वामी दयानन्द सरस्वती
अथ मित्रावरुणवाच्यशिल्पविषयमाह ॥
हे दिवः सम्राजा मित्रावरुणा ! ये मरुतः शूरो न शुभे सुखं रथं युञ्जते गविष्टिषु चित्रा रजांसि तन्यवश्च वि चरन्ति तैः पयसा नोऽस्मान् युवामुक्षतम् ॥५॥